CHELLAMUTHU RAJAMANI
कैकेयीवचनं श्रुत्वा महाराजो महावजूहतवृक्ष इव पतितो भूमितले । सेवकैः संज्ञां कथमपि प्रापितः सो ऽवदत् । भरतमातस्तादुशं क्रूरकर्म मा क्रियताम् | ज्येष्ठपुत्रो वनं मा गच्छतु | यदि मम सुकुमारसुतो चोरारण्यं गच्छति तर्ह्महं यमसदनमचिराद्गच्छामीति | कितु सा राजपत्नी शोकाकुलस्य राज्ञः करुणवचनं श्रुत्वा केवलमहसदवदच्च । भो धर्मज्ञराज । पूर्वं स्वयं प्रतिज्ञाते वरे ऽधुना कथं विचारः | अस्मद्वंशे तन्न कदापि क्रियत इति | पुनः पुनर्निषण्णो नुपस्तच्चित्तपरिवर्तने प्रयत्नातिशयमकरोत् । अन्ततः स धर्मजालबद्धनुपो भवतु पापे मत्पुत्रो राम आहू यतामित्युक्त्वा पुनस्तीक्ष्णशरहतखगवद्धरातले पतति स्म