DE
EN
Ashtanga Yoga
Yogatherapie
Philosophie
Community
Workshops & Ausbildung
Online Yogastudio
AYInstitute Ulm
Shop
Login
Hatha-Yoga-Pradipika - Kapitel 4: Nada, Bindu, Kala
Das vierte Kapitel der Hatha-Yoga Pradipika von Svatmarama
Hatha Yoga Pradipika
Chhaturthopadeshah
छतुर्थोपदेशः
Chaturthopadeśaḥ
viertes Kapitel
Kombiniert
|
Devanagari
|
Lautschrift
|
Vereinfacht
|
Übersetzung
|
Erläuterung
नमः शिवाय गुरवे नादबिन्दुकलात्मने ।"
निरञ्जनपदं याति नित्यं तत्र परायणः ॥१॥
अथेदानीं प्रवक्ष्यामि समाधिक्रमम् उत्तमम् ।"
मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम् ॥२॥
राजयोगः समाधिश् च उन्मनी च मनोन्मनी ।"
अमरत्वं लयस् तत्त्वं शून्याशून्यं परं पदम् ॥३॥
अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् ।"
जीवन्मुक्तिश् च सहजा तुर्या चेत्य् एकवाचकाः ॥४॥
सलिले सैन्धवं यद्वत् साम्यं भजति योगतः ।"
तथात्ममनसोर् ऐक्यं समाधिर् अभिधीयते ॥५॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते ।"
तदा समरसत्वं च समाधिर् अभिधीयते ॥६॥
तत्समं च द्वयोर् ऐक्यं जीवात्मपरमात्मनोः ।"
प्रनष्टसर्वसङ्कल्पः समाधिः सो.अभिधीयते ॥७॥
राजयोगस्य माहात्म्यं को वा जानाति तत्त्वतः ।"
जञानं मुक्तिः सथितिः सिद्धिर्गुरुवाक्येन लभ्यते ॥ ८ ॥
दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।"
दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥९॥
विविधैर् आसनैः कुभैर् विचित्रैः करणैर् अपि ।"
प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते ॥१०॥
उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः ।"
योगिनः सहजावस्था स्वयम् एव प्रजायते ॥११॥
सुषुम्णावाहिनि प्राणे शून्ये विशति मानसे ।"
तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ॥१२॥
अमराय नमस् तुभ्यं सो.अपि कालस् त्वया जितः ।"
पतितं वदने यस्य जगद् एतच् चराचरम् ॥१३॥
चित्ते समत्वम् आपन्ने वायौ व्रजति मध्यमे ।"
तदामरोली वज्रोली सहजोली प्रजायते ॥१४॥
ज्ञानं कुतो मनसि सम्भवतीह तावत्"
प्राणो.अपि जीवति मनो म्रियते न यावत् ।"
प्राणो मनो द्वयम् इदं विलयं नयेद् यो"
मोक्षं स गच्छति नरो न कथंचिद् अन्यः ॥१५॥
ज्ञात्वा सुषुम्णासद्भेदं कृत्वा वायुं च मध्यगम् ।"
स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे निरोधयेत् ॥१६॥
सूर्यचन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् ।"
भोक्त्री सुषुम्ना कालस्य गुह्यम् एतद् उदाहृतम् ॥१७॥
द्वासप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे ।"
सुषुम्णा शाम्भवी शक्तिः शेषास् त्व् एव निरर्थकाः ॥१८॥
वायुः परिचितो यस्माद् अग्निना सह कुण्डलीम् ।"
बोधयित्वा सुषुम्णायां प्रविशेद् अनिरोधतः ॥१९॥
सुषुम्णावाहिनि प्राणे सिद्ध्यत्य् एव मनोन्मनी ।"
अन्यथा त्व् इतराभ्यासाः प्रयासायैव योगिनाम् ॥२०॥
पवनो बध्यते येन मनस् तेनैव बध्यते ।"
मनश् च बध्यते येन पवनस् तेन बध्यते ॥२१॥
हेतुद्वयं तु चित्तस्य वासना च समीरणः ।"
तयोर् विनष्ट एकस्मिन् तौ द्वाव् अपि विनश्यतः ॥२२॥
मनो यत्र विलीयेत पवनस् तत्र लीयते ।"
पवनो लीयते यत्र मनस् तत्र विलीयते ॥२३॥
दुग्धाम्बुवत् संमिलिताव् उभौ तौ"
तुल्यक्रियौ मानसमारुतौ हि ।"
यतो मरुत् तत्र मनःप्रवृत्तिर्"
यतो मनस् तत्र मरुत्प्रवृत्तिः ॥२४॥
तत्रैकनाशाद् अपरस्य नाश"
एकप्रवृत्तेर् अपरप्रवृत्तिः ।"
अध्वस्तयोश् चेन्द्रियवर्गवृत्तिः"
प्रध्वस् तयोर् मोक्षपदस्य सिद्धिः ॥२५॥
रसस्य मनसश् चैव चञ्चलत्वं स्वभावतः ।"
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥२६॥
मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् ।"
बद्धः खेचरतां धत्ते रसो वायुश् च पार्वति ॥२७॥
मनः स्थैर्यं स्थिरो वायुस् ततो बिन्दुः स्थिरो भवेत् ।"
बिन्दुस्थैर्यात् सदा सत्त्वं पिण्डस्थैर्यं प्रजायते ॥२८॥
इन्द्रियाणां मनो नाथो मनोनाथस् तु मारुतः ।"
मारुतस्य लयो नाथः स लयो नादम् आश्रितः ॥२९॥
सो.अयम् एवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे ।"
मनःप्राणलये कश्चिद् आनन्दः सम्प्रवर्तते ॥३०॥
प्रनष्टश्वासनिश्वासः प्रध्वस्तविषयग्रहः ।"
निश्चेष्टो निर्विकारश् च लयो जयति योगिनाम् ॥३१॥
उच्छिन्नसर्वसङ्कल्पो निःशेषाशेषचेष्टितः ।"
स्वावगम्यो लयः को.अपि जायते वागगोचरः ॥३२॥
यत्र दृष्टिर् लयस् तत्र भूतेन्द्रियसनातनी ।"
सा शक्तिर् जीवभूतानां द्वे अलक्ष्ये लयं गते ॥३३॥
लयो लय इति प्राहुः कीदृशं लयलक्षणम् ।"
अपुनर्वासनोत्थानाल् लयो विषयविस्मृतिः ॥३४॥
वेदशास्त्रपुराणानि सामान्यगणिका इव ।"
एकैव शाम्भवी मुद्रा गुप्ता कुलवधूर् इव ॥३५॥
अथ शाम्भवी"
अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष॒वर्जिता ।"
एषा सा शाम्भवी मुद्रा वेद॒शास्त्रेषु गोपिता ॥३६॥
अन्तर् लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते"
दृष्ट्या निश्चलतारया बहिर् अधः पश्यन्न् अपश्यन्न् अपि ।"
मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद् गुरोः"
शून्याशून्यविलक्षणं स्फुरति तत् तत्त्वं पदं शाम्भवम् ॥३७॥
श्रीशाम्भव्याश् च खेचर्या अवस्थाधामभेदतः ।"
भवेच् चित्तलयानन्दः शून्ये चित्सुखरूपिणि ॥३८॥
Menü